पार्वत्युवाच
कैलासवासिन् भगवान् भक्तानुग्रहकारक।
राधिकाकवचं पुण्यं कथयस्व मम प्रभो।।
यद्यस्ति करुणा नाथ त्रहि मां दुःखताभयात्।
त्वमेव शरणं नाथ शूलपाणे पिनाकधृक्।।
शिव उवाच
श्रृणुष्व गिरिजे तुभ्यं कवचं पूर्वसंचितम्।
सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम्।।
हरिभक्तिप्रदं साक्षाद्भुक्तिमुक्तिप्रसाधनम्।
त्रैलोक्याकर्षणं देवि हरिसान्निध्यकारकम्।।
सर्वत्र जयदं देवि सर्वशत्रुभयावहम्।
सर्वेषां चैव भूतानां मनोवृत्तिहरं परम्।।
चतुर्धा मुक्तिजनकं सदानन्दकरं परम्।
राजसूयाश्वमेधानां यज्ञानां फलदायकम्।।
इदं कवचमज्ञात्वा राधा मन्त्रं च यो जपेत्।
स नाप्नोति फलं तस्य विघ्नस्तस्यपदेपदे।।
ऋषिरस्य महादेवोनुष्टुप् छन्दश्च कीर्तितः।
राधास्यदेवता प्रोक्ता रां बीजं कीलकं स्मृतम्।।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः।
श्री राधा मे शिरः पातु ललाटं राधिका तथा।।
श्रीमती नेत्रयुगलं कर्णौ गोपेन्द्रनन्दिनी।
हरिप्रिया नासिकां च भ्रूयुगं शशिशोभना।।
ओष्ठं पातु कृपादेवी अधरं गोपिका तथा।
वृषभानुसुता दन्ताश्चिबुकं गोपनन्दिनी।।
चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा।
कण्ठं पातु हरिप्राणा हृदयं विजया तथा।।
बाहू द्वै चन्द्रवदना उदरं सुवल स्वसा।
कोटियोगान्विता पातु पादौ सोभद्रिका तथा।।
नखांश्चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा।
जानुदेशं जया पातु गोपी पादतलं तथा।।
शुभप्रदा पातु पृष्ठं कुक्षौश्रीकान्तवल्लभा।
जानुदेशं जया पातु हरिणी पातु सर्वतः।।
वाक्य वाणी सदा पातु धनागारं धनेश्वरी।
पूर्वादिशं कृष्णरता कृष्णप्राणा च पश्चिमाम्।।
उत्तरां हरिता पातु दक्षिणां वृषभानुजा।
चन्द्रावलीनिशामेव दिवाक्ष्वेडितमेखला।।
सौभाग्यदा मध्यदिने सायान्हे कामरूपिणी।
रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये।
हेतुदा संगवे पातु केतुमाला दिवार्धके।
शेषा{परान्ह समये शमिता सर्वसंधिषु।।
योगिनी भोगसमये रतौ रतिप्रदा सदा।
कामेशीकौतुके नित्यं यागे रत्नावली मम।।
सर्वदा सर्वकार्येषु राधिका कृष्णमानसा।
इत्येतत्कथितं देवि कवचं परमाद्भुतम्।।
सर्वरक्षाकरं नाम महारक्षाकरं परम्।
प्रातर्मध्याह्नसमय सायाह्ने प्रपठेद्यदि।।
सर्वार्थ सिद्धिस्तस्ये स्यात् यद्यन्मनसि वर्तते।
राजद्वारे सभायां च संग्रामे शत्रुसंकटे।।
प्राणार्थनाशसमये यः पठेत्प्रयतो नरः।
तस्य सिद्धि र्भवेद्देवि न भयं विद्यते क्वचित्।।
आराधिता राधिका च तेन सत्यं न संशय।
गंगास्नानाद्धरेर्नामग्रहणाद्यत्फलं भवेत्।।
तत्फलं तस्य भवति यः पठेत् प्रयतः शुचिः
हरिद्रारोचना चन्द्रमंडित हरिचन्दनम्।।
कृत्वा लिखित्वा भूर्जं च धारयेन्मस्तके भुजे।
कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः।।
कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः।
संहारं नियतं चाहं करोमि कुरुते तथा।।
वैष्णवाय विशुद्धाय विरागगुणशालिने।
दद्यात्कवचमव्यग्रमन्यथा नाशमाप्नुयात्।।
।। इति श्रीनारदपंचरात्रे ज्ञानामृतसारे श्रीराधाकवचं सम्पूर्णम्।।